उपमा अलंकार के उदाहरण संस्कृत

Upma Alankar Ke Udaharan Sanskrit

Pradeep Chawla on 28-09-2018

एकस्मिन् वाक्‍ये एव उपमानउपमेययो: वैधर्म्यरहितं सादृश्‍यम् उपमाअलंकार: कथ्‍यते ।


साम्‍यं वाच्‍यमवैधर्म्‍यं वाक्‍यैक्‍य उपमा द्वयो:


उपमाया: चत्‍वारि अंगानि भवन्ति -


1. उपमेयम् - (उपमातुं योग्‍यम् उपमेयम्) - य: उपमाया: योग्‍यं भवेत् अथवा यस्‍य तुलना क्रियते । यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये मुखम् उपमेयमस्ति ।


2. उपमानम् - (उपमीयते अनेनेति उपमानम्) यस्‍य उपमा दीयते । यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये चन्‍द्र: उपमानम् अस्ति ।


3. साधारणधर्म: - (उपमाने उपमेये च संगतोधर्म: साधारणो धर्म:) - उपमानोपमेययो: य: धर्म: समानतां वहति स: साधारणधर्म: । यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'रम्‍यम्' साधारणधर्म: अस्ति ।


4. उपमावाचक शब्‍द: - (वाचक सादृश्‍यार्थक इवादिशब्‍द:) - येन औपम्‍यं प्रकट्यते । यथा - 'चन्‍द्र: इव मुखरम्‍यम्' वाक्‍ये 'इव' शब्‍द: उपमां प्रकटयति ।


उपर्युक्तानुसारम् उपमाया: द्वौ भेदौ स्‍त: -


1. पूर्णोपमा - यस्‍याम् उपर्युक्‍तानि चत्‍वारि समग्रलक्षणानि भवन्ति सा पूर्णोपमा भवति ।


2. लुप्‍तोपमा - य‍स्‍याम् उपर्युक्‍तेषु एकमपि लुप्‍तं भवति सा लुप्‍तोपमा इति कथ्‍यते ।


उदाहरणम् -


मधुर: सुधावदधर: पल्‍लवतुल्‍योतिपेलव: पाणि: ।


चकितमृगलोचनाभ्‍यां सदृशी चपले च लोचने तस्‍या: ।।


अत्र 'अधर, पाणि एवं च लोचनं' एतानि त्रीणि उपमेयानि, 'सुधा, पल्‍लवं, चकितमृगलोचनम्' एतानि त्रीणि उपमानानि, 'मधुर:, अतिपेलव:, चपल:' च एते त्रय: साधारणधर्म: एवं च 'वत्, तुल्‍य, सदृश' आदय: उपमावाचकशब्‍दा: सन्ति ।





Comments Sumit on 16-10-2021

Example in sanskrit alankar upma

Asha sain on 29-08-2021

Anupras alankar ki defination dijiye

My self mayra on 28-09-2018

Very nice



आप यहाँ पर उपमा gk, अलंकार question answers, संस्कृत general knowledge, उपमा सामान्य ज्ञान, अलंकार questions in hindi, संस्कृत notes in hindi, pdf in hindi आदि विषय पर अपने जवाब दे सकते हैं।

Labels: , , , , ,
अपना सवाल पूछेंं या जवाब दें।




Register to Comment